कक्ष्या दशमी / नवमी
पत्रलेखनम् -
भवती भार्गवी -दशम्यां पठति । आगामिनि मार्च मासे भवत्याः प्रसिद्धपरिक्षा आयास्यति । तदर्थं पितरं प्रति
लिखिते पत्रे रिक्तस्थानानि पूरयतु -
i)-------------------
आदरणीयः ii-------------सादरं प्रणामाः ।
अहमत्र iii--------------कृपया कुशलिनी अस्मि । iv-----------मया भवान् मात्रा भ्रात्रा सह कुशलः इति ।
भवता ज्ञायते यत् अस्मिन् वर्षे अहं दशम्यां v-----------------अस्मि इति । अस्माकं विद्यालये सर्वे
शिक्षकाः कुशलाः । परीक्षार्थं vi-----------पाठान् यथासमयं ते vii------------ । अतः पुनरावृत्तिः अति
व्यवस्थितरूपेण प्रचलन्ती अस्ति । अन्यविषयैः सह अहं संस्कृतम् अपि पठामि ।viii ------------
अस्मिन् वर्षे मम परिश्रमेण फलितांशः उत्तमः स्यात् इति अहं विश्वसिमि। ix-------------मम प्रणामान्
वदन्तु ।अपरं सर्वम् अपि कुशलम् एव । इत्थं भवतः x--------------पुत्री भार्गवी ।
( पितृपादः, आज्ञाकारिणी, गुरुकुलतः, देव्याः, अतः, समापयन्, निश्चितान् , चिन्त्यते, पठन्ती, मात्रे )
No comments:
Post a Comment