उद्यानस्य चित्रम् अस्ति । छात्राः उद्यानं (Garden) मनसि चिन्तयेयुः । शब्दाः कोष्ठके भवन्ति । तद्यथा
( सुन्दरम् अस्ति उद्यानम्, वृक्षाः , सन्ति, पुष्पाणि, विकसितानि, विशालम्, समीपे, प्रवहति, नदी, बालकाः,
क्रीडन्ति, परस्परं ,पादाभ्यां , ताडयन्ति, कन्दुकम् भ्रमन्ति, जनाः, इतस्ततः )
वाक्यनिर्माणे नियमाः
१) कर्तृपदचयनम् - यानि पदानि प्रथमाविभक्तौ सन्ति तानि कर्तृपदानि
उदा- उद्यानम्, बालकाः, पुष्पाणि, जनाः , नदी , इत्यादीनि । प्रथमं पञ्चपदानि चिन्वन्तु ।
२) क्रियापदचयनम् । प्रायः क्रियापदानि लट् लकारे एव भवन्ति ।
उदा- अस्ति, सन्ति, विकसितानि(क्तप्रत्ययान्तं पदम् ) प्रवहति, ताडयन्ति, भ्रमन्ति, क्रीडन्ति )
यदि मंजूषयां क्रियापदानि न्यूनानि भवन्ति तदा एतानि पदानि स्वीकुर्वन्तु यथा
विद्यते, वर्तते, विद्यन्ते, वर्तन्ते, प्रकाशते, शोभते, राजते इत्यादीनि )
३) यदि वाक्यरचनायां सामर्थ्यम् अस्ति तर्हि अव्ययपदानि चिन्वन्तु।
४) संख्यावाचकानि न प्रयोक्तव्यानि -
यतः तत्र दोषः सम्भवेत् । अतः जागृताः स्युः ।
वाक्य निर्माणम् -
उद्यानम्, - उद्यानम् सुन्दरम् अस्ति ।
बालकाः, बालकाः क्रीडन्ति ।
पुष्पाणि, पुष्पाणि विकसन्ति ।
जनाः , जनाः भ्रमन्ति ।
नदी नदी प्रवहति ।
एवमन्यानि सामान्यानि वाक्यानि निर्मातुं शक्यन्ते ।
No comments:
Post a Comment