श्री शंकर भगवत्पादाः अनेककृतीनां कर्तारः वर्तन्ते। भाष्यत्रयं तेषां महोन्नतकृति रत्नेषु अन्यतमम् एव। ताः च कृतयः शास्त्रदृष्ट्या लोकानां विदुषां जिज्ञासूनां च मनसः तोषणाय , तथा ज्ञानमार्गं अनुगन्तुं साहाय्यिक्यः इति तु निस्सन्देहम्। तथैव ताभिः कृतिभिः सह आचार्याः स्तोत्र-काव्यरचनायाम् अपि सिद्धहस्ताः आसन् । पूर्वस्मिन् एतानि च स्तोत्राणि अस्माकम् अष्टादशपुराणेषु अपि वर्णितानि आसन् । पश्चात् भगवत्पादाः स्तोत्ररचनायां विभिन्न देवताः उदिश्य स्तोत्राणि व्यरचयन् । प्रायः एका अपि देवता न स्यात् याम् उद्दिश्य आचार्याः स्तोत्रं न व्यरचयन् । स्तोत्ररचनया सह नीति विषयाणाम् प्रस्तुतीकरणम् अपि आचार्याणाम् अन्यतमः विषयः आसीत्। तत्र विशिष्टः कस्चन लघुग्रन्थः प्रश्नोत्तररत्नमालिका
अयं च ग्रन्थः प्रायः ६७ श्लोकैः सम्मिलितः विद्यते । तत्रापि पाठभेदाः वर्तन्ते । केचन निगदन्ति यत् ६३ एव श्लोकाः अतर् सन्ति इति । स्यान्नाम् , विषयः तु उत्तम एव सर्वैः अपि अनुगन्तुं शक्यत एव । यथानाम तथैव अस्याः कृतेः अर्थः अपि । सर्वे अपि श्लोकाः अपि रत्नप्रायाः एव इति नास्ति शंका। प्रश्नोत्तरम् इति तु वर्तते परं कः प्रश्नान् पृच्छति इतिअत्र निर्देशः नास्त्येव। अहं कदाचित् विदुषः अपृच्छम् तदा तेषां वादः अवर्तत- यत् प्रायः आचार्याः प्रश्नान् उद्घाट्य अथ उत्तराणि अलिखन् । अन्यः कोऽपि अधारः नास्त्येव । अतः तत्र विद्यमानं तत्त्वम् एव वयं पश्यामः इति तेषां वादः आसीत् ।

No comments:
Post a Comment