Sunday, 7 August 2011

पतञ्जलिः

भगवान् पाणिनिः व्याकरणशास्त्रस्य पितामहः इति सामान्यतः सर्वेषां विश्वासः वर्तते । सत्यमेव व्याकरणे अनेके पाचीनाचार्याः आसन् यथा पाणिनिः स्व अष्टाध्य्यां बहूनां प्राचीनाचार्याणां उल्लेखं करोति। यथा शाकल्यः भारद्वाजः स्फोटायनः इत्यादि । अन्याः च काचन परम्पराः तदा प्रचलिता आसन् । परन्तु तपस्विनः पाणिनेः पद्धतिः अतीव वैज्ञानिका इति विद्वांसः मन्यन्ते।
पश्चादागतः वररुचिः इत्यपरनामा भगवान्  कात्यायनः । एतेन अनेकानि वार्तिकानि उपदिष्टानि । ये च विषयाः पाणिनीय सूतेषु उपनिबद्धाः तान् सर्वान् पुरस्कुर्वन् लोकव्यवहारं वीक्षमाणः अन्यान् अपि विषयान् वार्तिकेषु उपदिश्य लोकायोपकारं कृतवान् ।
अथ च आयाति शेषावतारी भगवतो महादेवस्य अपरम् एव अवतारस्वरूपः इति बहुभिः विश्रुतः  श्री भगवान्
पतञ्जलिः ।   एषः पाणिनेः अष्टाध्यायीं समग्रतयाभ्यस्य प्रधानानां बहूनां सूत्राणां स्वविशिष्टशैल्या व्याख्यास्यति । प्रायः भाष्यस्यशैलीं वीक्ष्य एतत् खलु परिज्ञायते सामान्योऽपि व्याकर्णाध्ययने रुचिं प्रदर्शयेत्।
लोकव्यहारेण नित्यजीवनोपयोगीनि उदाहरणाणि  उदाहरन् सर्वाणि प्रकरणि सुष्ठु प्रकारेण व्याख्यास्यति।अस्य अर्थः अयं सुतरामपि न , यत् भाष्यं अतीव सुलभसाध्यम् इति । तदेव अनुभूय इयमुक्तिः प्रधानताया सर्वत्रापि श्रूयते . यत्
महाभाष्यं वा पठनीयं महाराज्यं वा पालनीयम् । इति । अनेन ज्ञायते , महाराज्यं पालयितुं यावान् श्रमः अपेक्षितः तथैव महाभाष्य़ाध्ययने अपि अवश्यमेव श्रमः कार्यः ।तस्मात् व्याकरणाध्येतृभिः अवश्यमेव शास्त्रस्य हृदयभूतंमहाभाष्यम् अध्येतव्यम् एव। अस्माकं गुरवः विद्वान् श्री महाबलेश्वर भट्टाः सर्वदापि सर्वत्रापि पतञ्जलिम् उदाहरन्तः व्याख्यामारभन्ते । एवमेव आचार्याः वे॥ ब्रह्मश्री ॥ विद्वान् सो ती नागराजाः अपि आचार्येण भाश्ये इदमुदाहृतम् इति प्रतिपदं वदन्ति । अतः वैयाकरणानाम् अस्माकं पतञ्जलिः प्राणरूपः इति वदामः तर्हि  अतिस्ज्योक्तिः नास्ति । तस्मात् मयापि मम   blog कृते महतां नाम एव स्वीकृतम् ।






No comments:

Post a Comment