नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता । ॥ हितोपदेशः सुहृद्भेदः ॥
अस्य अयम् अर्थः - मृगेन्द्रस्य अरण्ये न कोपि संस्कारं ददाति । न च अबिषेकः वा क्रियते । यः तु राज्ञां भवति ।
तथापि सिंहः स्वशक्त्या एव स्वतः एव मृगेन्द्रो भूत्वा राजते । तस्मात् यः च स्वयं संकल्पशक्तिमान् भवति स स्वयमेव प्राप्तबलो भवति इति तात्पर्यम् ।
न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते ।
गृहन्तु गृहिणीहीनम् अरण्यसदृशं भवेरत् ।
केवलं यत्नेन निर्मितं भवनं ग्ऋहम् इति पण्डिताः न वदन्ति । गृहिणी एव गृहम् इति वदन्ति सन्तः।
यस्मिन् गृहे गृहिणी नास्ति तत् गृहम् अरण्येन समम् ।
इति शान्तिपर्वणि भगवान् वेदव्यासः । ( 10-1-2017)

No comments:
Post a Comment