Friday, 7 October 2011

प्रश्नोत्तर रत्नमालिका

श्री शंकर भगवत्पादाः अनेककृतीनां  कर्तारः वर्तन्ते। भाष्यत्रयं तेषां महोन्नतकृति रत्नेषु अन्यतमम् एव। ताः च कृतयः शास्त्रदृष्ट्या लोकानां विदुषां  जिज्ञासूनां च मनसः तोषणाय , तथा ज्ञानमार्गं अनुगन्तुं साहाय्यिक्यः इति तु निस्सन्देहम्। तथैव ताभिः कृतिभिः सह आचार्याः स्तोत्र-काव्यरचनायाम् अपि सिद्धहस्ताः आसन् । पूर्वस्मिन् एतानि च स्तोत्राणि अस्माकम् अष्टादशपुराणेषु अपि वर्णितानि आसन् । पश्चात् भगवत्पादाः स्तोत्ररचनायां विभिन्न देवताः उदिश्य स्तोत्राणि व्यरचयन् । प्रायः एका अपि देवता न स्यात् याम् उद्दिश्य आचार्याः स्तोत्रं न व्यरचयन् । स्तोत्ररचनया सह नीति विषयाणाम् प्रस्तुतीकरणम् अपि आचार्याणाम् अन्यतमः विषयः आसीत्। तत्र विशिष्टः कस्चन लघुग्रन्थः प्रश्नोत्तररत्नमालिका
अयं च ग्रन्थः प्रायः  ६७ श्लोकैः सम्मिलितः विद्यते । तत्रापि पाठभेदाः वर्तन्ते । केचन निगदन्ति यत् ६३ एव श्लोकाः अतर् सन्ति इति । स्यान्नाम् , विषयः तु उत्तम एव सर्वैः अपि अनुगन्तुं शक्यत एव । यथानाम तथैव अस्याः कृतेः अर्थः अपि । सर्वे अपि श्लोकाः अपि रत्नप्रायाः एव इति नास्ति शंका। प्रश्नोत्तरम् इति तु वर्तते परं कः प्रश्नान् पृच्छति  इतिअत्र निर्देशः नास्त्येव। अहं कदाचित्  विदुषः अपृच्छम् तदा तेषां वादः अवर्तत- यत् प्रायः आचार्याः प्रश्नान् उद्घाट्य अथ उत्तराणि  अलिखन् । अन्यः कोऽपि अधारः नास्त्येव । अतः तत्र विद्यमानं तत्त्वम् एव वयं पश्यामः इति तेषां वादः आसीत् ।




Sunday, 7 August 2011

पतञ्जलिः

भगवान् पाणिनिः व्याकरणशास्त्रस्य पितामहः इति सामान्यतः सर्वेषां विश्वासः वर्तते । सत्यमेव व्याकरणे अनेके पाचीनाचार्याः आसन् यथा पाणिनिः स्व अष्टाध्य्यां बहूनां प्राचीनाचार्याणां उल्लेखं करोति। यथा शाकल्यः भारद्वाजः स्फोटायनः इत्यादि । अन्याः च काचन परम्पराः तदा प्रचलिता आसन् । परन्तु तपस्विनः पाणिनेः पद्धतिः अतीव वैज्ञानिका इति विद्वांसः मन्यन्ते।
पश्चादागतः वररुचिः इत्यपरनामा भगवान्  कात्यायनः । एतेन अनेकानि वार्तिकानि उपदिष्टानि । ये च विषयाः पाणिनीय सूतेषु उपनिबद्धाः तान् सर्वान् पुरस्कुर्वन् लोकव्यवहारं वीक्षमाणः अन्यान् अपि विषयान् वार्तिकेषु उपदिश्य लोकायोपकारं कृतवान् ।
अथ च आयाति शेषावतारी भगवतो महादेवस्य अपरम् एव अवतारस्वरूपः इति बहुभिः विश्रुतः  श्री भगवान्
पतञ्जलिः ।   एषः पाणिनेः अष्टाध्यायीं समग्रतयाभ्यस्य प्रधानानां बहूनां सूत्राणां स्वविशिष्टशैल्या व्याख्यास्यति । प्रायः भाष्यस्यशैलीं वीक्ष्य एतत् खलु परिज्ञायते सामान्योऽपि व्याकर्णाध्ययने रुचिं प्रदर्शयेत्।
लोकव्यहारेण नित्यजीवनोपयोगीनि उदाहरणाणि  उदाहरन् सर्वाणि प्रकरणि सुष्ठु प्रकारेण व्याख्यास्यति।अस्य अर्थः अयं सुतरामपि न , यत् भाष्यं अतीव सुलभसाध्यम् इति । तदेव अनुभूय इयमुक्तिः प्रधानताया सर्वत्रापि श्रूयते . यत्
महाभाष्यं वा पठनीयं महाराज्यं वा पालनीयम् । इति । अनेन ज्ञायते , महाराज्यं पालयितुं यावान् श्रमः अपेक्षितः तथैव महाभाष्य़ाध्ययने अपि अवश्यमेव श्रमः कार्यः ।तस्मात् व्याकरणाध्येतृभिः अवश्यमेव शास्त्रस्य हृदयभूतंमहाभाष्यम् अध्येतव्यम् एव। अस्माकं गुरवः विद्वान् श्री महाबलेश्वर भट्टाः सर्वदापि सर्वत्रापि पतञ्जलिम् उदाहरन्तः व्याख्यामारभन्ते । एवमेव आचार्याः वे॥ ब्रह्मश्री ॥ विद्वान् सो ती नागराजाः अपि आचार्येण भाश्ये इदमुदाहृतम् इति प्रतिपदं वदन्ति । अतः वैयाकरणानाम् अस्माकं पतञ्जलिः प्राणरूपः इति वदामः तर्हि  अतिस्ज्योक्तिः नास्ति । तस्मात् मयापि मम   blog कृते महतां नाम एव स्वीकृतम् ।






Sunday, 17 July 2011

सुभाषितम्

नाभिषेको न संस्कारः  सिंहस्य क्रियते वने ।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता   । ॥ हितोपदेशः  सुहृद्भेदः ॥
अस्य अयम् अर्थः - मृगेन्द्रस्य अरण्ये न कोपि संस्कारं ददाति । न च अबिषेकः वा क्रियते । यः तु राज्ञां भवति ।
तथापि सिंहः स्वशक्त्या एव स्वतः एव मृगेन्द्रो भूत्वा राजते । तस्मात् यः च स्वयं संकल्पशक्तिमान् भवति स स्वयमेव प्राप्तबलो भवति इति तात्पर्यम् ।

 न   गृहं  गृहमित्याहुः  गृहिणी  गृहमुच्यते ।
  गृहन्तु  गृहिणीहीनम्  अरण्यसदृशं भवेरत् ।
 केवलं  यत्नेन निर्मितं भवनं  ग्ऋहम् इति  पण्डिताः  न वदन्ति । गृहिणी एव गृहम् इति वदन्ति सन्तः।
 यस्मिन् गृहे  गृहिणी  नास्ति  तत्  गृहम्  अरण्येन समम् ।
 
   इति शान्तिपर्वणि भगवान्  वेदव्यासः ।   ( 10-1-2017)