Monday, 27 February 2017


  उद्यानस्य  चित्रम् अस्ति । छात्राः  उद्यानं (Garden) मनसि चिन्तयेयुः । शब्दाः  कोष्ठके  भवन्ति । तद्यथा

(  सुन्दरम्  अस्ति उद्यानम्, वृक्षाः , सन्ति, पुष्पाणि, विकसितानि, विशालम्, समीपे, प्रवहति, नदी, बालकाः,
   क्रीडन्ति, परस्परं ,पादाभ्यां  , ताडयन्ति, कन्दुकम् भ्रमन्ति, जनाः, इतस्ततः )
 वाक्यनिर्माणे  नियमाः

  १) कर्तृपदचयनम् -  यानि पदानि प्रथमाविभक्तौ सन्ति तानि  कर्तृपदानि
      उदा- उद्यानम्, बालकाः, पुष्पाणि, जनाः , नदी , इत्यादीनि । प्रथमं पञ्चपदानि चिन्वन्तु ।
  २)  क्रियापदचयनम् । प्रायः क्रियापदानि  लट् लकारे एव भवन्ति ।
      उदा- अस्ति, सन्ति, विकसितानि(क्तप्रत्ययान्तं पदम् ) प्रवहति, ताडयन्ति, भ्रमन्ति, क्रीडन्ति )
       यदि मंजूषयां क्रियापदानि न्यूनानि भवन्ति तदा एतानि पदानि स्वीकुर्वन्तु यथा
      विद्यते, वर्तते, विद्यन्ते, वर्तन्ते, प्रकाशते, शोभते, राजते इत्यादीनि )
   ३)  यदि वाक्यरचनायां सामर्थ्यम् अस्ति तर्हि अव्ययपदानि चिन्वन्तु।

  ४)  संख्यावाचकानि न प्रयोक्तव्यानि -
         यतः तत्र दोषः सम्भवेत् । अतः जागृताः स्युः ।
         वाक्य निर्माणम् -
             उद्यानम्,  -  उद्यानम् सुन्दरम् अस्ति ।
             बालकाः,   बालकाः  क्रीडन्ति ।
             पुष्पाणि,     पुष्पाणि  विकसन्ति ।
             जनाः ,        जनाः  भ्रमन्ति ।
             नदी            नदी प्रवहति ।
           एवमन्यानि  सामान्यानि वाक्यानि  निर्मातुं शक्यन्ते ।